हे प्रभो वर्षणं स्याद्वयं त्वातुरा:
चित्तचिन्ताधुना स्मो वयं त्वातुराः ।
कामयामो वयं वर्षणं स्याद्यथा
मेघमादिष्यातां स्मो वयं त्वातुराः।
सर्वत: शुष्कता स्वेदाधरा: सदा
पश्यतो निर्जलं स्मो वयं त्वातुरा:।
कामयन्तो जलं शीतलं निर्मलम्
व्याकुला:स्म: जलार्थं वयं त्वातुरा:।
मीनका वै यथा रिक्त ताडागका:
व्याकुलाःप्रार्थयन्ते वयं त्वातुरा:।
रिक्तरिक्तास्ताः समस्ता:जलस्थानकाः
शुष्कवृक्षा विदग्धा: वयं त्वातुरा:।
पक्षिणो यान्ति दूरं जलं यत्र वै
वारिजा नैव सक्ता वयं त्वातुरा:।
ग्रीष्मदाघो दहन्वर्तते प्रत्यहम्
हे प्रभो रक्षिता: स्मो वयं त्वातुरा:।
दाघसंतप्तकानां शरण्यो भवान्
पातु सर्वान्नमामो वयं त्वातुराः ।।
वक्तिदासानुदासोऽवनीशोधरो
वर्षणात्पातु नाथो वयं त्वातुरा:।।
डॉ०अवनीशधरद्विवेदी
शिवगङ्गा वसुंधरा
१९/०५/२०२६
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें