चैत्र मासेऽसिते भानुवारे शुभे
दर्शनायां तिथौ रेवती भे तथा।
भारतस्योत्तरेचोत्तराखण्डके
ब्रह्मविद्विप्रपूज्यो दिनेशोह्यभूत् ।१।
उत्तरस्य प्रदेशस्य राज्यात्पृथक्
राज्यखण्डो ह्यभूदुत्तराञ्चो वर:।
उत्तराखण्डनाम्ना प्रसिद्धो महद्
द्वि:सहस्राब्दके सप्तवर्षे शुभे।२।
स्कान्दके मानसे खण्डके प्राप्यते
कौशिकी शाल्मली शैलजोर्मध्यगः।
पर्वतो विद्यते पुण्यकाषायक:
पश्चिमे क्षेत्रके तस्य विष्णो:पदम्।३।
पर्वतं ह्येतदेवास्ति चाल्मोडकं
क्षेत्रमेतद्वरं सर्वतो धार्मिकम्।
प्राक्तनं सुप्रसिद्धं च भौगोलिकम्
ख्यातमासीत्पुरेदं तु कूर्माञ्चलम्।४।
देवदेवस्य विष्णो:प्रभोर्मुक्तिदस्या
वतारस्य कूर्मस्य दिव्यं स्थलम्।
लालितं पालितं दिव्यदिव्यं परं
भुक्तिदं मुक्तिदं शान्तिदं कामदम् ।५।
श्रीहरेर्द्वारके पावने स्थानके
जाह्नवीतोयपूते पवित्रे तटे।
तीर्थविप्रस्य कूर्माञ्चलस्यान्तिके
वर्णनं गर्गवंशस्य सम्प्रापते।६।
विप्रवर्णे कुले गर्गगोत्रोद्भवो
जोशिनाम्ना प्रसिद्धो दिनेशोह्यभूत्।
शास्त्रनिर्देशिते विप्रवर्णे कुले
जायते कर्मषट्कं च यस्मिन्कुले।७।
शक्तिसम्पूजनस्यास्ति यस्मिन्कुले
सुप्रसिद्ध:क्रमो देवतायार्चने ।
त्यागभावैर्लसन्त:परं सौभगा
दानदाक्षिण्ययुक्ता: परं तापसा:।८।
संध्यया संयुतस्तर्पणे संरतो
ब्रह्मणत्वस्य षट्कर्मणि व्यापृत:।
ब्रह्मविज्ज्ञानवान्य: परं पूजितो
जोशिवर्य:प्रपूज्योदिनेश:सदा।९।
वेदवेदांगसंवित्प्रवक्ता महान्
ब्रह्मवेत्ता तथाष्टाङ्गयोगे रतः।
पंचबलिवैश्वदेवस्य पूजायुतो
जोशिवर्योदिनेश:प्रपूज्य:सदा।१०।
वेदमातु: समाराधने तत्पर:
प्रातमध्याह्नसायं त्रिसंध्यायुतः।
छात्रसम्पत्तिरासीद्महद्यस्य वै
जोशिवर्योदिनेश:प्रपूज्यो वर:।११।
शब्दशात्रस्यमर्मज्ञ आसीत्तथा
धर्मवेत्ता श्रुते:सारसञ्चारक:।
पर्वतीयस्य सत्संस्कृतेर्रक्षको
जोशिवर्यो दिनेशःप्रपूज्यो वर:।१२।
आत्मसाद्येन वेदाश्चकृत्स्नं कृताः
स्कन्दरीत्याव्रजन् धर्मनिष्ठश्चरन्।
तीर्थयात्रां तपश्चर्यया योऽकरोज्
जोशिवर्यो दिनेश: प्रपूज्यो वर:।१३।
येन यज्ञास्त्वनेके कृता: कारिताः
येन संचेतना मानवानां कृता:।
येन भक्ताः प्रबुद्धाः पुनर्जागृता:
जोशिवर्यो दिनेश:प्रपूज्य: सदा।१४।
येन विद्यालयाः संस्कृतस्योत्तमाश्
चलिताश्चालनार्थं च सम्प्रेरिता: ।
चेतना संस्कृतेर्येन संवर्धिता
जोशिवर्यो दिनेशः प्रपूज्यः सदा।१५।
वेदविद्यालया: संकुला नैकशो
यस्य निर्देशने स्वास्थ्यलाभङ्गता:।
उत्तराखण्डराज्यस्य भाषाद्वितीयं
भवेत्संस्कृतं कल्पितं नैकधा।१६।
बाल्यकालाद्धियो वेदावेदाङ्गिकं
शिक्षणं प्राप्तवान् स्वीयपित्रादिना।।
तीर्थयात्रां चरन्नर्जितं ज्यौतिषं
शाकुनम्वास्तुशास्त्रं च वेदान्तकम्१७।
जीवनस्यास्य प्रत्येकमासीत्क्षणं
धर्मसंरक्षणे संस्कृतोन्नायने।
वाणिरासीद्गभीरा परावैदिकी
लोकसन्मङ्गलस्योत्तमा कामना।१८।
शाक्त आसीत् परं तेजसा भूषितो
भव्यभाले सुगन्धेर्युतञ्चन्दनम्।
श्वेतवर्णावृतश्चात्ममोहात्पृथज्
जोशिवर्यो नमंस्यःपरं साधकः।१९।
पञ्चभूतात्मकं देहयष्टिं यदा
त्यक्तवाञ्जोशिवर्य:सुनीलाग्रत:।
वेदपाठं करोतिष्म पौत्रो वरश्
चैत्रमासस्य शुक्लाविरासीत्तिथि:।२०।
डॉ.अवनीशधरद्विवेदी
रा.स.बा.वि.खि.
देहली