अवन्त्या ऐतिह्यं मुनि सुसरभङ्गेन सुमतं
ऋषिः ह्येषस्तावच्छ्मदमदयादानभरित:।
प्रभुश्रीरामस्य कविषु पूज्यस्याथ तपसो
मुनिर्वाल्मीकेश्च प्रभवति सखे कालिकजन:।१।
सुनद्या:शिप्राया वसति सविधे या शिवपुरी
अवन्तेर्नाम्ना या जगति बहुधा विश्रुतपुरी।
पुरीषु श्रेष्ठा या भवति सुभगा मुक्तिकरिणी
प्रसिद्धा शम्भोर्या परमकृपया पालितपुरी।२।
महाकालो यत्र प्रभवति हरस्त्र्यम्बकविभु:
सहायो भुक्त्यर्थं वसति भगवान्तीर्थनगरे।
दिव: खण्डं त्वेकं हृतमिव सखे कान्तिकमनम्
पुनीतं यद्वारं जगति परमं मोक्षसुलभम्।३।
पुरीयं धन्या नो भवति शुभदं स्नानपरमम्
गतेसिंहं भानौ भवति सुखदं पुण्यजननम्।
तपोनिष्ठा:सिद्धा:प्रतिपलसुतप्ताश्च मुनय:
समायान्ति स्नातुं विविधजपयागादिनिरता:।४।
चरञ्छिप्रावातः प्रियतममनो यस्तु हरते
हरत्यङ्गग्लानिं परिचरति खेदं च नयते।
प्रसिद्धा:संत्यत्र क्षणमपि वदन्त्यो युवतयः
प्रहारो याषां स्यान्नयनजनितो भावभरित:।५।
अवन्त्यां श्रीदेवो निवसति महाकालसुखदः
पुरस्ताद्देवस्य विलसति जलाप्लावित सर:।
निमज्जन् संसार: सततमिह मुक्तिं च वृणुते
प्रसिद्धोयम् कुण्डो विदधति सदापुण्यपरक:।६।
अवन्तिक्यां पुर्यां प्रवहति नदी गन्धवतिकी
तटे तस्या: देयं सविधविधिवत्पिण्डकपरम्।
तपस्तप्तं घोरं परममुनिना चात्रि सुधिया
ततो जातः सोम:प्रभवति तत:सोमवतिका ।७।
पुराणे स्कान्दे वै शिवशिवकरोरुद्रभगवान्
अवन्तिक्यामेव त्रिपुरमहनद्रुद्रशिवदः।
तत:प्रख्यातेयं प्रथितनगरी पुण्यदवरा
प्रसिद्धिं संप्राप्ता विविधबहुसाक्ष्यैरुपगता।८।
प्रभु:श्रीकृष्णोपि प्रमुदितमनाऽसेवदममुं
गुरुःश्रीदेवस्य प्रथितसुपुरी ज्ञानदवरा।
ततो मित्रंयातो द्विजकुलवरो मित्रगहन:
सुदामेत्याख्यातो परमतपपूतोऽतिविमल:।।९
डॉ० अवनीश धर द्विवेदी
अध्यापकः
रा०स०बा०वि०खि०
देहली-९१
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें