मातस्ते चरणे रमेन्मम मनो गाथां प्रगायेत्सदा
स्तोत्रं ते प्रसरेन्ममापि च धिया काव्यं सरेत्ते सदा।
विन्ध्येपर्वतके वसन् कुरु कृपां कार्यं भवेत्सर्वदं
सार्थक्यं ननु लेखनी भजतु मे धन्यं भवेज्जीवनम्।१।
स्तोत्रं ते विलिखेन्मदीयकलमो गानं गुणस्यापि च
प्राकामं सुमनः सदा लसतु मे पादाम्बुजे तावके।
ध्यानं पूजनमर्चनादि सकलं कुर्यामहं भक्तितो
मातस्ते चरणे रतिर्भवतु नो विन्ध्येश्वरि प्रीतिदे।२।
मन्दोहं मतिमन्दतां हर सदा सर्वेश्वरि प्रार्थये
पापात्मा किल जन्मजन्मभिरहं याचे कृपां तावकीम्।
पुत्रो याति कुपुत्रतां जगति चेन्माता कुमाता क्वचित्
तस्मात्त्वय्यहमस्मि वच्मि सततं मातर्दयां मे कुरु।३।
विन्ध्येपर्वतके वसन् प्रकुरुषे लोकस्य सम्पालनं
कामं कामयतो भवन्ति सफ़ला:कमॉंल्लभन्तो जना:।
लोकास्ते कृपया भवन्ति सुखिनो मातस्त्वदीया कृपा
किं किं नैव सुसाधयेत्तव सदा भुक्तिप्रदा मुक्तिदा।४।
दीनो हीनजनोऽस्म्यहं शृणु मुहुस्त्वज्ञानकूपं गतो
जन्मान्तर्यविपाकपाकगलितो मातोऽस्म्यहं पीड़ितः।
यद्यद्बन्धनमस्ति नो कुरु कृपां क्षीयेत सर्वं यथा
मातस्ते कृपया भवेन्मम रुचि: काव्ये परं शाश्वती:।५।
डॉ०अवनीश धर द्विवेदी
शिवगङ्गा वसुन्धरा
३०/०५/२०२६
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें