गुरुवार, 2 जुलाई 2026

युद्धं न शान्तिप्रदम्

 युद्धे नाशमुपैति जीवनमिदं हानिस्तु नित्यं मतं

लोकानां खलु जायते क्षतिमहत्पूर्तिं न कर्तुं क्षम:।

सर्वत्र प्रसृता भवेद्धि सततं हा हा ध्वनिर्नित्यशस्

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।१।


स्तोकेनैव सुलाभभावसुधिया राष्ट्रोन्नतिं काङ्क्षता

राष्ट्राणां खलु वर्धते भुवि महद्वैरस्य भावोऽधिक:।

स्वार्थांधो मनुजस्तनोति गरलं सर्वत्र गृद्ध्रन्मुहुस्

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।२।


देशो नाशमुपैति गच्छति मुहुर्मृत्योर्मुखं प्रत्यहम्

शस्त्राणां बहुगर्जनेन सकला भीता जना भूूरिशः।

युद्धेन प्रतिवासरं प्रतिपलं संजायते दूषितम्

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।३।


शान्ति:स्यात्सुखदा प्रसारितकरा लोकोन्मुखा भूतिदा

शस्त्रास्त्रैःजगतो भवेन्न हननं लोको भयाद्वर्जितः।

जीव:स्वास्थ्यमुपेत्य स्वस्थमनसा सम्यग्लसेज्जीवनं 

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।४।


माता रोदिति पुत्रको मम गत:पुत्र:कवचिद्वै तथा

भार्या रोदिति सौभगं मम गतं भ्राता हृतो वै कथम्।

एवं रोदिति सर्वथैव भगिनी नूनं कुटुम्बस्तथा

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।५।


युद्धे कोपि हतो भवेद्भवति वै हानिर्मनुष्यस्य हि

युद्धेनप्रतिवासरं भवति वै सर्वत्र हानिःपरा।

युद्धं नास्ति विकल्पमस्य जगतःशान्त्यैव भद्रं सदा

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।६।


तुच्छस्वार्थधिया व्रजन्ति सततं सक्ता जना:सर्वतो

वाग्युद्धेन समारभन्ति चरितं शस्त्रांततां याति यत्।

नानाशस्त्रविताननेन सुजना लोका: क्षयं यान्ति वै

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।७।


मान्या वै शृणुत प्रबुद्धसुजना: कालोऽह्ययं केवलं

दूरादेव करं प्रगृह्य बलवान् भुङ्क्ते समन्ताज्जगत्।

लोकोऽयं क्षणभङ्गुर:प्रतिपलं सिक्तासमं संस्खलन्

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।८।


युद्धेनाद्य समे भवन्ति विकला देशा धरायां स्थिताः

सर्वत्रेन्धनमार्गमस्ति पिहितं पोता: समुद्रङ्गता:।

सर्वे मार्गमवेक्षयन्ति चकिता मार्गोवरुद्धस्तथा

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।९।


कोऽप्यस्तिप्रमुखं प्रवक्ति भव हे संचालितो मेऽनुगः

कोऽप्यस्ति प्रखरं करोति सजवं त्वण्वस्त्र संधानकम्।

यावल्लोकविलोकयेद्भवति वै देशो हतस्त्वस्त्रतस्

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।१०।


लोकःशान्तिमुपैतु गच्छ्तु परं भद्रं शुभं वाञ्छतः 

शुभ्रं वाक्प्रददातु राष्ट्रसकल:शस्त्रास्त्रमाकुञ्चयन्।

युद्धेनास्ति गतिर्मति:सुविमला सञ्जायतां वै नृणां

तस्माद्वच्मि विचार्य एव मनसा युद्धं न शान्तिप्रदम्।११।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

दिल्लीपुलिस

ये दिल्ली पुलिस हमारी है करती सबकी रखवारी है। भय भ्रान्ति मुक्त होवे दिल्ली  हम सबकी जिम्मेदारी है ।१। ये दिल्ली पुलिस हमारी है...... हाँ इस...