गुरुवार, 2 जुलाई 2026

समस्यापूर्तिः

 विज्ञानं सविमर्षकं वितनुते काव्यं सदा धीमता-

मानन्दं तनुते धियो वितनुते कल्लोलिनीसंगमः।

नानाकाव्यरसं तनोति सुखदश्चित्तप्रसादो वर

श्चेतस्तापमपाकरोतु सततं कल्लोलिनीयं सताम्।१।


काव्येन प्रसरन्ति कीर्तिविमला:काव्यं चमत्कारकं

काव्यं मानवतां तनोति विमलां बुद्धिं विधत्ते स्थिराम्।

आनन्दस्य महोत्सवो जगति वै जायेत शीघ्रं ध्रुवं चेतस्तापमपाकरोतु सततं कल्लोलिनी धीमताम् ।२।


सानन्दं सुधियो वदन्ति कवितां गायन्ति सद्धर्षिता:

हृल्लेखा:सततं स्फ़ुरन्ति जगतः काव्यं चमत्कारकम्।

कालो याति विपश्चितां प्रतिपलं शास्त्रान्तरं पश्यताञ्

चेतस्तापमपाकरोतु सततं कल्लोलिनीयं सताम्।३।


एकस्मिन्पटले भवन्ति बहुशो विद्वज्जना योजिता

भारत्या:समुपासका नव नवोन्मेषप्रभा भूषिता:।

आत्मानन्दविधायिनी सुकविता भागीरथी शान्तिदा चेतस्तापमपा करोतु सततं कल्लोलिनीयं सताम् ।४।


नैके सिद्धसुहस्तका:सुकवयः काव्ये कृतास्तूद्यमा

लालित्येन समन्वितां सुकवितां नानाविधां कीर्तिदाम्।

गायन्त:प्रभवन्ति यत्र कवयस्त्वाभाषिके पाटले 

चेतस्तापमपाकरोतु सततं कल्लोलिनी धीमताम्।५।


डॉ०अवनीशधरद्विवेदी

   ०८/०५/२०२६

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

दिल्लीपुलिस

ये दिल्ली पुलिस हमारी है करती सबकी रखवारी है। भय भ्रान्ति मुक्त होवे दिल्ली  हम सबकी जिम्मेदारी है ।१। ये दिल्ली पुलिस हमारी है...... हाँ इस...